Sukta 8.92
त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् । सखाय इन्द्र कारवः ॥
त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् । सखा॑य इन्द्र का॒रव॑: ॥
tvā́m id dhí tvāyávo ’nunónuvataś cárān | sákhāya indra kā́ravaḥ ||
For it is you indeed whom the seekers of your light continually urge on as you move; your companions, O Indra—the inspired doers—press you forward.
त्वाम् । इत् । हि । त्वा॒ऽयवः॑ । अ॒नु॒ऽनोनु॑वतः । चरा॑न् । सखा॑यः । इ॒न्द्र॒ । का॒रवः॑ ॥त्वाम् । इत् । हि । त्वायवः । अनुनोनुवतः । चरान् । सखायः । इन्द्र । कारवः ॥tvām | it | hi | tvāyavaḥ | anu-nonuvataḥ | carān | sakhāyaḥ | indra | kāravaḥ