Sukta 8.92
त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः । त्वमस्माकं तव स्मसि ॥
त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृध॑: । त्वम॒स्माकं॒ तव॑ स्मसि ॥
tváyéd indra yujā́ vayáṃ práti bruvīmahi spṛ́dhaḥ | tvám asmā́kaṃ táva smasi ||
With you alone as our yoked power, O Indra, we answer back to the rivalries; you are ours—and we are yours, bound in mutual belonging.
त्वया॑ । इत् । इ॒न्द्र॒ । यु॒जा । व॒यम् । प्रति॑ । ब्रु॒वी॒म॒हि॒ । स्पृधः॑ । त्वम् । अ॒स्माक॑म् । तव॑ । स्म॒सि॒ ॥त्वया । इत् । इन्द्र । युजा । वयम् । प्रति । ब्रुवीमहि । स्पृधः । त्वम् । अस्माकम् । तव । स्मसि ॥tvayā | it | indra | yujā | vayam | prati | bruvīmahi | spṛdhaḥ | tvam | asmākam | tava | smasi