Sukta 8.92
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । एवा ते राध्यं मनः ॥
ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः । ए॒वा ते॒ राध्यं॒ मन॑: ॥
evā́ hy ási vīrayúr evā́ śū́ra utá sthiráḥ | evā́ te rā́dhyaṃ mánaḥ ||
Thus indeed you are: a seeker and awakener of the heroic powers; thus you are the warrior and the steadfast; thus, too, is your mind—fit for accomplishment, sure in its fulfilment.
ए॒व । हि । असि॑ । वी॒र॒ऽयुः । ए॒व । शूरः॑ । उ॒त । स्थि॒रः । ए॒व । ते॒ । राध्य॑म् । मनः॑ ॥एव । हि । असि । वीरयुः । एव । शूरः । उत । स्थिरः । एव । ते । राध्यम् । मनः ॥eva | hi | asi | vīra-yuḥ | eva | śūraḥ | uta | sthiraḥ | eva | te | rādhyam | manaḥ