Sukta 8.91
इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय । शिरस्ततस्योर्वरामादिदं म उपोदरे ॥
इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी॑न्द्र॒ वि रो॑हय । शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥
imā́ni trī́ṇi viṣṭápā tā́ny indra ví rohaya | śíras tátasyorvárām ā́d idáṃ ma úpa udáre ||
These three worlds—these planes of ordered dwelling—raise them up, O Indra, into their true growth. From the head of that one, bring out the field of increase; set this also within my being, near the inward depth.
इ॒मानि॑ । त्रीणि॑ । वि॒ष्टपा॑ । तानि॑ । इ॒न्द्र॒ । वि । रो॒ह॒य॒ । शिरः॑ । त॒तस्य॑ । उ॒र्वरा॑म् । आत् । इ॒दम् । मे॒ । उप॑ । उ॒दरे॑ ॥इमानि । त्रीणि । विष्टपा । तानि । इन्द्र । वि । रोहय । शिरः । ततस्य । उर्वराम् । आत् । इदम् । मे । उप । उदरे ॥imāni | trīṇi | viṣṭapā | tāni | indra | vi | rohaya | śiraḥ | tatasya | urvarām | āt | idam | me | upa | udare