Sukta 8.91
कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत् । कुवित्पतिद्विषो यतीरिन्द्रेण संगमामहै ॥
कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् । कु॒वित्प॑ति॒द्विषो॑ य॒तीरिन्द्रे॑ण सं॒गमा॑महै ॥
kuvíc chákāt kuvíd kárat kuvín no vásyasas kárat | kuvíd pati-dvíṣo yatī́r índreṇa saṃ-gamāmahai ||
Who knows—perhaps he will have the power, perhaps he will act; perhaps he will fashion for us a more luminous and happy state. Who knows—perhaps we shall come into union with Indra and drive away the movements that oppose the soul’s lordship.
कु॒वित् । शक॑त् । कु॒वित् । कर॑त् । कु॒वित् । नः॒ । वस्य॑सः । कर॑त् । कु॒वित् । प॒ति॒ऽद्विषः॑ । य॒तीः । इन्द्रे॑ण । स॒म्ऽगमा॑महै ॥कुवित् । शकत् । कुवित् । करत् । कुवित् । नः । वस्यसः । करत् । कुवित् । पतिद्विषः । यतीः । इन्द्रेण । सम्गमामहै ॥kuvit | śakat | kuvit | karat | kuvit | naḥ | vasyasaḥ | karat | kuvit | pati-dviṣaḥ | yatīḥ | indreṇa | sam-gamāmahai