Sukta 8.9
यदद्य वां नासत्योक्थैराचुच्युवीमहि । यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम् ॥
यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ । यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ॥
yád adyá vāṃ nāsatyoktháir ācucyuvīmáhi | yád vā vā́ṇībhir aśvinevét kāṇvásya bodhatam ||
If today, O Nāsatyas, we have stirred you by hymns of uplift, or if by our inspired utterances, O Aśvins—then awaken to the call of the Kāṇva.
यत् । अ॒द्य । वा॒म् । ना॒स॒त्या॒ । उ॒क्थैः । आ॒ऽचु॒च्यु॒वी॒महि॑ । यत् । वा॒ । वाणी॑भिः । अ॒श्वि॒ना॒ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥यत् । अद्य । वाम् । नासत्या । उक्थैः । आचुच्युवीमहि । यत् । वा । वाणीभिः । अश्विना । एव । इत् । काण्वस्य । बोधतम् ॥yat | adya | vām | nāsatyā | ukthaiḥ | ācucyuvīmahi | yat | vā | vāṇībhiḥ | aśvinā | eva | it | kāṇvasya | bodhatam