Sukta 8.9
यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव । पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥
यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ । पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥
yád vāṃ kakṣī́vāṃ uta yád vyàśva ṛ́ṣir yád vāṃ dīrghátamā juhā́va | pṛthī́ yád vāṃ vainyáḥ sā́daneṣv evéd áto aśvinā cetayethām ||
Since Kakṣīvān called you, and since the seer Vyàśva called you, since Dīrghatamas invoked you, and since Pṛthī Vainya (too) in the seats of dwelling—therefore, O Aśvins, become attentive (to us) even now.
यत् । वा॒म् । क॒क्षीवा॑न् । उ॒त । यत् । विऽअ॑श्वः । ऋषिः॑ । यत् । वा॒म् । दी॒र्घऽत॑माः । जु॒हाव॑ । पृथी॑ । यत् । वा॒म् । वै॒न्यः । सद॑नेषु । ए॒व । इत् । अतः॑ । अ॒श्वि॒ना॒ । चे॒त॒ये॒था॒म् ॥यत् । वाम् । कक्षीवान् । उत । यत् । विअश्वः । ऋषिः । यत् । वाम् । दीर्घतमाः । जुहाव । पृथी । यत् । वाम् । वैन्यः । सदनेषु । एव । इत् । अतः । अश्विना । चेतयेथाम् ॥yat | vām | kakṣīvān | uta | yat | vi-aśvaḥ | ṛṣiḥ | yat | vām | dīrgha-tamāḥ | juhāva | pṛthī | yat | vām | vainyaḥ | sadaneṣu | eva | it | ataḥ | aśvinā | cetayethām