Sukta 8.9
आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना । आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥
आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना । आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥
ā nūnám raghúvartaniṃ ráthaṃ tiṣṭhātho aśvinā | ā vāṃ stómā imé máma nábho ná cucyavīrata ||
Now mount your chariot of swift turning, O Aśvins; to you my hymns rise up and do not fall away, like the sky’s high expanse holding firm.
आ । नू॒नम् । र॒घुऽव॑र्तनिम् । रथ॑म् । ति॒ष्ठा॒थः॒ । अ॒श्वि॒ना॒ । आ । वा॒म् । स्तोमाः॑ । इ॒मे । मम॑ । नभः॑ । न । चु॒च्य॒वी॒र॒त॒ ॥आ । नूनम् । रघुवर्तनिम् । रथम् । तिष्ठाथः । अश्विना । आ । वाम् । स्तोमाः । इमे । मम । नभः । न । चुच्यवीरत ॥ā | nūnam | raghu-vartanim | ratham | tiṣṭhāthaḥ | aśvinā | ā | vām | stomāḥ | ime | mama | nabhaḥ | na | cucyavīrata