Sukta 8.9
आ नूनमश्विनोॠषिः स्तोमं चिकेत वामया । आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥
आ नू॒नम॒श्विनो॒ॠषि॒: स्तोमं॑ चिकेत वा॒मया॑ । आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥
ā nūnám aśvínoḥ ṛ́ṣiḥ stómaṃ ciketa vāmayā́ | ā sómaṃ mádhumattamaṃ gharmáṃ siñcād átharvaṇi ||
Now let the seer of the Aśvins awaken the hymn for you with a glad force; and let him pour out the Soma, most honeyed, the warm libation, in the Atharvan manner (with the right fire-knowledge).
आ । नू॒नम् । अ॒श्विनोः॑ । ऋषिः॑ । स्तोम॑म् । चि॒के॒त॒ । वा॒मया॑ । आ । सोम॑म् । मधु॑मत्ऽतमम् । घ॒र्मम् । सि॒ञ्चा॒त् । अथ॑र्वणि ॥आ । नूनम् । अश्विनोः । ऋषिः । स्तोमम् । चिकेत । वामया । आ । सोमम् । मधुमत्तमम् । घर्मम् । सिञ्चात् । अथर्वणि ॥ā | nūnam | aśvinoḥ | ṛṣiḥ | stomam | ciketa | vāmayā | ā | somam | madhumat-tamam | gharmam | siñcāt | atharvaṇi