Sukta 8.9
यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः । अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥
यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथ॑: । अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः ॥
yán nāsatyā bhuráṇyatho yád vā deva bhiṣajyáthaḥ | ayáṃ vāṃ vatsó matíbhir ná víndhate havíṣmantaṃ hí gácchathaḥ ||
O Nāsatyas, whether you speed on your way or whether, O divine ones, you heal and set right, this child of your offering does not find you by his thought-movements; for you go to the one who is rich in the oblation (the flame of surrender).
यत् । ना॒स॒त्या॒ । भु॒र॒ण्यथः॑ । यत् । वा॒ । दे॒व॒ । भि॒ष॒ज्यथः॑ । अ॒यम् । वा॒म् । व॒त्सः । म॒तिऽभिः । न । वि॒न्ध॒ते॒ । ह॒विष्म॑न्तम् । हि । गच्छ॑थः ॥यत् । नासत्या । भुरण्यथः । यत् । वा । देव । भिषज्यथः । अयम् । वाम् । वत्सः । मतिभिः । न । विन्धते । हविष्मन्तम् । हि । गच्छथः ॥yat | nāsatyā | bhuraṇyathaḥ | yat | vā | deva | bhiṣajyathaḥ | ayam | vām | vatsaḥ | mati-bhiḥ | na | vindhate | haviṣmantam | hi | gacchathaḥ