Sukta 8.9
यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् । तेन माविष्टमश्विना ॥
यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् । तेन॑ माविष्टमश्विना ॥
yád apsú yád vanaspátaú yád óṣadhīṣu purudamsasā kr̥tám | téna mā aviṣṭam aśvinā ||
Whatever you two, rich in skillful works, have wrought in the waters, in the lord of plants, and in the healing herbs—by that power of your making, protect me, O Ashvins.
यत् । अ॒प्ऽसु । यत् । व॒नस्पतौ॑ । यत् । ओष॑धीषु । पु॒रु॒ऽदं॒स॒सा॒ । कृ॒तम् । तेन॑ । मा॒ । अ॒वि॒ष्ट॒म् । अ॒श्वि॒ना॒ ॥यत् । अप्सु । यत् । वनस्पतौ । यत् । ओषधीषु । पुरुदंससा । कृतम् । तेन । मा । अविष्टम् । अश्विना ॥yat | ap-su | yat | vanaspatau | yat | oṣadhīṣu | puru-daṃsasā | kṛtam | tena | mā | aviṣṭam | aśvinā