Sukta 8.9
अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते । अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥
अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते । अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥
ayáṃ vāṃ gharmó aśvinā stómena pári sicyate | ayáṃ sómo mádhumān vājinīvasū yéna vr̥tráṃ cikétathaḥ ||
This is your warm offering, O Ashvins, poured around with the hymn. This is the Soma, honeyed, O lords of plenitudes—by which you become conscious of the Coverer and break his hold.
अ॒यम् । वा॒म् । घ॒र्मः । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ । अ॒यम् । सोमः॑ । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । येन॑ । वृ॒त्रम् । चिके॑तथः ॥अयम् । वाम् । घर्मः । अश्विना । स्तोमेन । परि । सिच्यते । अयम् । सोमः । मधुमान् । वाजिनीवसू इति वाजिनीवसू । येन । वृत्रम् । चिकेतथः ॥ayam | vām | gharmaḥ | aśvinā | stomena | pari | sicyate | ayam | somaḥ | madhu-mān | vājinīvasūitivājinī-vasū | yena | vṛtram | ciketathaḥ