Sukta 8.9
ये वां दंसांस्यश्विना विप्रासः परिमामृशुः । एवेत्काण्वस्य बोधतम् ॥
ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः । ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥
yé vā́m daṃsā́ṃsy aśvinā víprāsaḥ parimāmr̥śúḥ | évét kā́ṇvasya bodhatam ||
Those inspired seers who have touched and encompassed your wonder-works, O Ashvins—by that very knowledge, awaken to the call of the Kāṇva.
ये । वा॒म् । दंसां॑सि । अ॒श्वि॒ना॒ । विप्रा॑सः । प॒रि॒ऽम॒मृ॒शुः । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥ये । वाम् । दंसांसि । अश्विना । विप्रासः । परिममृशुः । एव । इत् । काण्वस्य । बोधतम् ॥ye | vām | daṃsāṃsi | aśvinā | viprāsaḥ | pari-mamṛśuḥ | eva | it | kāṇvasya | bodhatam