Sukta 8.9
यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषाँ अनु । नृम्णं तद्धत्तमश्विना ॥
यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑ । नृ॒म्णं तद्ध॑त्तमश्विना ॥
yád antárikṣe yád diví yát páñca mā́nuṣāṃ ánu | nr̥mṇáṃ tád dhattam aśvinā ||
Whatever the heroic strength is in the mid-world, whatever in heaven, whatever follows the five peoples—grant that power to us, O Ashvins.
यत् । अ॒न्तरि॑क्षे । यत् । दि॒वि । यत् । पञ्च॑ । मानु॑षान् । अनु॑ । नृ॒म्णम् । तत् । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥यत् । अन्तरिक्षे । यत् । दिवि । यत् । पञ्च । मानुषान् । अनु । नृम्णम् । तत् । धत्तम् । अश्विना ॥yat | antarikṣe | yat | divi | yat | pañca | mānuṣān | anu | nṛmṇam | tat | dhattam | aśv inā