Sukta 8.9
आ नूनमश्विना युवं वत्सस्य गन्तमवसे । प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः ॥
आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से । प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥
ā nū́nam aśvinā yuváṃ vatsásya gantám aváse | prā́smái yacchatam avŕ̥kaṃ pr̥thú chardír yuyutáṃ yā́ arā́tayaḥ ||
Come now, O Ashvins, you two, for the help of Vatsa. Grant to him a wide shelter that no wolf can break; drive away the forces of hostility that assail.
आ । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वम् । व॒त्सस्य॑ । ग॒न्त॒म् । अव॑से । प्र । अस्मै॑ । य॒च्छ॒त॒म् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । यु॒यु॒तम् । याः । अरा॑तयः ॥आ । नूनम् । अश्विना । युवम् । वत्सस्य । गन्तम् । अवसे । प्र । अस्मै । यच्छतम् । अवृकम् । पृथु । छर्दिः । युयुतम् । याः । अरातयः ॥ā | nūnam | aśvinā | yuvam | vatsasya | gantam | avase | pra | asmai | yacchatam | avṛkam | pṛthu | chardiḥ | yuyutam | yāḥ | arātayaḥ