Sukta 8.9
यदापीतासो अंशवो गावो न दुह्र ऊधभिः । यद्वा वाणीरनूषत प्र देवयन्तो अश्विना ॥
यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः । यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑ ॥
yád āpī́tāso aṃśávo gā́vo ná duhrá ū́dhabhiḥ | yád vā vāṇī́r anū́ṣata prá devayánto aśvínā ||
When the rays, fully filled, give forth like cows with their udders; and when the voices have sounded in response, pressing forward toward the gods—then, O Ashvins, (come with your help).
यत् । आऽपी॑तासः । अं॒शवः॑ । गावः॑ । न । दु॒ह्रे । ऊध॑ऽभिः । यत् । वा॒ । वाणीः॑ । अनू॑षत । प्र । दे॒व॒ऽयन्तः॑ । अ॒श्विना॑ ॥यत् । आपीतासः । अंशवः । गावः । न । दुह्रे । ऊधभिः । यत् । वा । वाणीः । अनूषत । प्र । देवयन्तः । अश्विना ॥yat | āpītāsaḥ | aṃśavaḥ | gāvaḥ | na | duhre | ūdha-bhiḥ | yat | vā | vāṇīḥ | anūṣata | pra | deva-yantaḥ | aśvinā