Sukta 8.9
यदुषो यासि भानुना सं सूर्येण रोचसे । आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥
यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे । आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्य॑म् ॥
yád uṣo yā́si bhānúnā sáṃ sū́ryeṇa rocase | ā́ háyám aśvíno rátho vartír yā́ti nṛpā́yyam ||
When, O Dawn, you travel with your beam and shine in union with the Sun, then indeed this chariot of the Ashvins moves on its turning course toward the protecting lordship.
यत् । उ॒षः॒ । यासि॑ । भा॒नुना॑ । सम् । सूर्ये॑ण । रो॒च॒से॒ । आ । ह॒ । अ॒यम् । अ॒श्विनोः॑ । रथः॑ । व॒र्तिः । या॒ति॒ । नृ॒ऽपाय्य॑म् ॥यत् । उषः । यासि । भानुना । सम् । सूर्येण । रोचसे । आ । ह । अयम् । अश्विनोः । रथः । वर्तिः । याति । नृपाय्यम् ॥yat | uṣaḥ | yāsi | bhānunā | sam | sūryeṇa | rocase | ā | ha | ayam | aśvinoḥ | rathaḥ | vartiḥ | yāti | nṛ-pāyyam