Sukta 8.9
अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः । व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥
अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनो॑: । व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥
abhútsy u prā́ devyā́ sākáṃ vācā́ham aśvínoḥ | vyā̀varde devyā́ matíṃ ví rātíṃ mártyebhyaḥ ||
I have come forth, together with the divine Word, for the Ashvins; the Goddess has opened out the thought and the giving—she has spread her luminous gift to mortals.
अभु॑त्सि । ऊँ॒ इति॑ । प्र । दे॒व्या । सा॒कम् । वा॒चा । अ॒हम् । अ॒श्विनोः॑ । वि । आ॒वः॒ । दे॒वि॒ । आ । म॒तिम् । वि । रा॒तिम् । मर्त्ये॑भ्यः ॥अभुत्सि । ऊँ इति । प्र । देव्या । साकम् । वाचा । अहम् । अश्विनोः । वि । आवः । देवि । आ । मतिम् । वि । रातिम् । मर्त्येभ्यः ॥abhutsi | oṃ iti | pra | devyā | sākam | vācā | aham | aśvinoḥ | vi | āvaḥ | devi | ā | matim | vi | rātim | martyebhyaḥ