Sukta 8.87
द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम् । मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥
द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तम् । मध्व॑: सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥
dyumnī vāṃ stomo aśvinā krivir na seke ā gatam | madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe ||
Radiant is this hymn for you, O Aśvins; like a swift sprinkling it calls you—come. Of the pressed sweetness (Soma) that is dear in heaven, O two heroes, drink—like two bright ones moving on the open field.
द्यु॒म्नी । वा॒म् । स्तोमः॑ । अ॒श्वि॒ना॒ । क्रिविः॑ । न । सेके॑ । आ । ग॒त॒म् । मध्वः॑ । सु॒तस्य॑ । सः । दि॒वि । प्रि॒यः । न॒रा॒ । पा॒तम् । गौ॒रौऽइ॑व । इरि॑णे ॥द्युम्नी । वाम् । स्तोमः । अश्विना । क्रिविः । न । सेके । आ । गतम् । मध्वः । सुतस्य । सः । दिवि । प्रियः । नरा । पातम् । गौरौइव । इरिणे ॥dyumnī | vām | stomaḥ | aśvinā | kriviḥ | na | seke | ā | gatam | madhvaḥ | sutasya | saḥ | divi | priyaḥ | narā | pātam | gaurau-iva | iriṇe