Sukta 8.86
ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे । ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥
ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृङ्ग॑मुर्वि॒या वि प॑प्रथे । ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
ṛtena devaḥ savitā śamāyate ṛtasya śṛṅgam urviyā vi paprathe | ṛtaṃ sasāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam ||
By the Truth-Order the god Savitṛ grows calm and brings peace; the horn of Ṛta he has spread wide in its vastness. He has conquered for us the Ṛta even against the mighty who strive in battle—let him not loosen our fellowship, let him not release us from comradeship.
ऋ॒तेन॑ । दे॒वः । स॒वि॒ता । श॒म्ऽआ॒य॒ते॒ । ऋ॒तस्य॑ । शृङ्ग॑म् । उ॒र्वि॒या । वि । प॒प्र॒थे॒ । ऋ॒तम् । स॒सा॒ह॒ । महि॑ । चि॒त् । पृ॒त॒न्य॒तः । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥ऋतेन । देवः । सविता । शम्आयते । ऋतस्य । शृङ्गम् । उर्विया । वि । पप्रथे । ऋतम् । ससाह । महि । चित् । पृतन्यतः । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥ṛtena | devaḥ | savitā | śam-āyate | ṛtasya | śṛṅgam | urviyā | vi | paprathe | ṛtam | sasāha | mahi | cit | pṛtanyataḥ | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam