Sukta 8.85
नू मे गिरो नासत्याश्विना प्रावतं युवम् । मध्वः सोमस्य पीतये ॥
नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वम् । मध्व॒: सोम॑स्य पी॒तये॑ ॥
nū́ me gíro nāsatyā́śvinā prá̄vatam yuvám | mádhvaḥ sómasya pītáye ||
Now uphold my utterances, O Nāsatyas, O Ashvins—do you two foster them forward—for the drinking of the honeyed Soma, the delight that makes the word effective and true.
नु । मे॒ । गिरः॑ । ना॒स॒त्या॒ । अश्वि॑ना । प्र । अ॒व॒त॒म् । यु॒वम् । मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥नु । मे । गिरः । नासत्या । अश्विना । प्र । अवतम् । युवम् । मध्वः । सोमस्य । पीतये ॥nu | me | giraḥ | nāsatyā | aśvinā | pra | avatam | yuvam | madhvaḥ | somasya | pītaye