Sukta 8.84
तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु । स्वेषु क्षयेषु वाजिनम् ॥
तं म॑र्जयन्त सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑ । स्वेषु॒ क्षये॑षु वा॒जिन॑म् ॥
táṃ marjayanta su-krátuṃ puro-yā́vānam ā́jiṣu | svèṣu kṣáyeṣu vā́jinam ||
Him they brighten and make pure—him of good and right will, the forerunner in the battles; the strong one of plenitude of force in his own settled realms of being.
तम् । म॒र्ज॒य॒न्त॒ । सु॒ऽक्रतु॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ । स्वेषु॑ । क्षये॑षु । वा॒जिन॑म् ॥तम् । मर्जयन्त । सुक्रतुम् । पुरःयावानम् । आजिषु । स्वेषु । क्षयेषु । वाजिनम् ॥tam | marjayanta | su-kratum | puraḥ-yāvānam | ājiṣu | sveṣu | kṣayeṣu | vājinam