Sukta 8.84
क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नन्ति हन्ति यः । अग्ने सुवीर एधते ॥
क्षेति॒ क्षेमे॑भिः सा॒धुभि॒र्नकि॒र्यं घ्नन्ति॒ हन्ति॒ यः । अग्ने॑ सु॒वीर॑ एधते ॥
kṣéti kṣémebhiḥ sā́dhubhir nákir yáṃ ghnánti hánti yáḥ | ágne su-vī́ra edhate ||
He dwells with secure safeties and right harmonies; none can strike down him whom thou protectest. O Agni, he grows into a rich heroism—into a soul full of strong powers.
क्षेति॑ । क्षेमे॑भिः । सा॒धुऽभिः॑ । नकिः॑ । यम् । घ्नन्ति॑ । हन्ति॑ । यः । अग्ने॑ । सु॒ऽवीरः॑ । ए॒ध॒ते॒ ॥क्षेति । क्षेमेभिः । साधुभिः । नकिः । यम् । घ्नन्ति । हन्ति । यः । अग्ने । सुवीरः । एधते ॥kṣeti | kṣemebhiḥ | sādhu-bhiḥ | nakiḥ | yam | ghnanti | hanti | yaḥ | agne | su-vīraḥ | edhate