Sukta 8.84
कस्य नूनं परीणसो धियो जिन्वसि दम्पते । गोषाता यस्य ते गिरः ॥
कस्य॑ नू॒नं परी॑णसो॒ धियो॑ जिन्वसि दम्पते । गोषा॑ता॒ यस्य॑ ते॒ गिर॑: ॥
kásya nūnáṃ parī́ṇaso dhíyo jinvasi dampate | goṣā́tā yásya te gíraḥ ||
Whose abundant and rounded thoughts dost thou now quicken, O lord of the house?—he whose words for thee are winners of the Light-rays (the cows of illumination).
कस्य॑ । नू॒नम् । परी॑णसः । धियः॑ । जि॒न्व॒सि॒ । द॒म्ऽप॒ते॒ । गोऽसा॑ता । यस्य॑ । ते॒ । गिरः॑ ॥कस्य । नूनम् । परीणसः । धियः । जिन्वसि । दम्पते । गोसाता । यस्य । ते । गिरः ॥kasya | nūnam | parīṇasaḥ | dhiyaḥ | jinvasi | dam-pate | go--sātā | yasya | te | giraḥ