Sukta 8.84
कविमिव प्रचेतसं यं देवासो अध द्विता । नि मर्त्येष्वादधुः ॥
क॒विमि॑व॒ प्रचे॑तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता । नि मर्त्ये॑ष्वाद॒धुः ॥
kavím iva prácetasaṃ yáṃ devā́so ádha dvitā́ | ní mártyeṣv ā́dadhuḥ ||
Like a seer of inspired vision, of wide and luminous consciousness, him the Gods have again and again established within mortals—so that the divine seeing may be seated in the human vessel.
क॒विम्ऽइ॑व । प्रऽचे॑तसम् । यम् । दे॒वासः॑ । अध॑ । द्वि॒ता । नि । मर्त्ये॑षु । आ॒ऽद॒धुः ॥कविम्इव । प्रचेतसम् । यम् । देवासः । अध । द्विता । नि । मर्त्येषु । आदधुः ॥kavim-iva | pra-cetasam | yam | devāsaḥ | adha | dvitā | ni | martyeṣu | ādadhuḥ