Sukta 8.84
प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् । अग्निं रथं न वेद्यम् ॥
प्रेष्ठं॑ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यम् । अ॒ग्निं रथं॒ न वेद्य॑म् ॥
préṣṭhaṃ vo áti-thiṃ stuṣé mitrám-iva priyám | agníṃ ráthaṃ na védyam ||
I praise for you the dearest Guest, beloved like a friend—Agni, like a chariot fit to be known and used for the journey of the sacrifice within.
प्रेष्ठ॑म् । वः॒ । अति॑थिम् । स्तु॒षे । मि॒त्रम्ऽइ॑व । प्रि॒यम् । अ॒ग्निम् । रथ॑म् । न । वेद्य॑म् ॥प्रेष्ठम् । वः । अतिथिम् । स्तुषे । मित्रम्इव । प्रियम् । अग्निम् । रथम् । न । वेद्यम् ॥preṣṭham | vaḥ | atithim | stuṣe | mitram-iva | priyam | agnim | ratham | na | vedyam