Sukta 8.84
त्वं यविष्ठ दाशुषो नॄँ: पाहि शृणुधी गिरः । रक्षा तोकमुत त्मना ॥
त्वं य॑विष्ठ दा॒शुषो॒ नॄँ: पा॑हि शृणु॒धी गिर॑: । रक्षा॑ तो॒कमु॒त त्मना॑ ॥
tváṃ yáviṣṭha dāśúṣo nṝ́ṃ pā́hi śṛṇudhī́ gíraḥ | rákṣā tókām utá tmánā ||
Thou, youngest (ever-new) Flame, protect the men who give; hear our words. Guard the child-soul and the growth of being, and also protect us by thy own self-existent force.
त्वम् । य॒वि॒ष्ठ॒ । दा॒शुषः॑ । नॄन् । पा॒हि॒ । शृ॒णु॒धि । गिरः॑ । रक्ष॑ । तो॒कम् । उ॒त । त्मना॑ ॥त्वम् । यविष्ठ । दाशुषः । नॄन् । पाहि । शृणुधि । गिरः । रक्ष । तोकम् । उत । त्मना ॥tvam | yaviṣṭha | dāśuṣaḥ | nṝn | pāhi | śṛṇudhi | giraḥ | rakṣa | tokam | uta | tmanā