Sukta 8.83
यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । अधा चिद्व उत ब्रुवे ॥
यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः । अधा॑ चिद्व उ॒त ब्रु॑वे ॥
yūyáṃ hí ṣṭhā su-dā́nava índra-jyeṣṭhā abhi-dyávaḥ | ádhā cid va utá bruve ||
You indeed are the generous ones, with Indra as the eldest and leader, pressing upward toward the luminous heaven; and therefore even so I speak to you.
यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । इन्द्र॑ऽज्येष्ठाः । अ॒भिऽद्य॑वः । अध॑ । चि॒त् । वः॒ । उ॒त । ब्रु॒वे॒ ॥यूयम् । हि । स्थ । सुदानवः । इन्द्रज्येष्ठाः । अभिद्यवः । अध । चित् । वः । उत । ब्रुवे ॥yūyam | hi | stha | su-dānavaḥ | indra-jyeṣṭhāḥ | abhi-dyavaḥ | adha | cit | vaḥ | uta | bruve