Sukta 8.81
उप क्रमस्वा भर धृषता धृष्णो जनानाम् । अदाशूष्टरस्य वेदः ॥
उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् । अदा॑शूष्टरस्य॒ वेद॑: ॥
úpa krámasvā́ bhara dhṛṣatā́ dhṛ́ṣṇo jánānām | adā́śūṣṭarasya védaḥ ||
Step near and bring it, O bold one, with thy daring, thou who art the most daring among men. Thou knowest the knowledge of him who gives not—the secret of the non-offerer and how to master that obstruction.
उप॑ । क्र॒म॒स्व॒ । आ । भ॒र॒ । धृ॒ष॒ता । धृ॒ष्णो॒ इति॑ । जना॑नाम् । अदा॑शूःऽतरस्य । वेदः॑ ॥उप । क्रमस्व । आ । भर । धृषता । धृष्णो इति । जनानाम् । अदाशूःतरस्य । वेदः ॥upa | kramasva | ā | bhara | dhṛṣatā | dhṛṣṇo iti | janānām | adāśūḥ-tarasya | vedaḥ