Sukta 8.81
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । महाहस्ती दक्षिणेन ॥
आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥
ā́ tū́ na indra kṣumántaṃ citráṃ grābháṃ sáṃ gṛbhāya | mahāhastī́ dákṣiṇena ||
Come to us, O Indra; seize together for us the bright and abundant grasp of power—thou of the great hand—by thy right hand of effective action.
आ । तु । नः॒ । इ॒न्द्र॒ । क्षु॒ऽमन्त॑म् । चि॒त्रम् । ग्रा॒भम् । सम् । गृ॒भ॒य॒ । म॒हा॒ऽह॒स्ती । दक्षि॑णेन ॥आ । तु । नः । इन्द्र । क्षुमन्तम् । चित्रम् । ग्राभम् । सम् । गृभय । महाहस्ती । दक्षिणेन ॥ā | tu | naḥ | indra | kṣu-mantam | citram | grābham | sam | gṛbhaya | mahāhastī | dakṣiṇena