Sukta 8.8
आ नो यातमुपश्रुत्यश्विना सोमपीतये । स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा ॥
आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये । स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा ॥
ā nó yātam úpa-śruty aśvinā sóma-pītaye | svā́hā stómasya vardhanā prá kavī dhītíbhiḥ narā ||
Come to us, O Aśvins, having listened near, for the drinking of soma; svāhā—O increasers of the hymn—press forward, O seer-twins, with your inspired thoughts, O heroes.
आ । नः॒ । या॒त॒म् । उप॑ऽश्रुति । अश्वि॑ना । सोम॑ऽपीतये । स्वाहा॑ । स्तोम॑स्य । व॒र्ध॒ना॒ । प्र । क॒वी॒ इति॑ । धी॒तिऽभिः॑ । न॒रा॒ ॥आ । नः । यातम् । उपश्रुति । अश्विना । सोमपीतये । स्वाहा । स्तोमस्य । वर्धना । प्र । कवी इति । धीतिभिः । नरा ॥ā | naḥ | yātam | upa-śruti | aśvinā | soma-pītaye | svāhā | stomasya | vardhanā | pra | kavī iti | dhīti-bhiḥ | narā