Sukta 8.8
आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया । पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ॥
आ नो॑ यातं दि॒वस्पर्यान्तरि॑क्षादधप्रिया । पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ॥
ā nó yātam divás pár y antárikṣād adha-priyā | putráḥ káṇvasya vām ihá suṣā́va sómyaṃ mádhu ||
Come to us from heaven and from the mid-world, O lovers of the offering; here the son of Kaṇva has pressed for you the soma’s honey—may that delight enter and set right our inner currents.
आ । नः॒ । या॒त॒म् । दि॒वः । परि॑ । आ । अ॒न्तरि॑क्षात् । अ॒ध॒ऽप्रि॒या॒ । पु॒त्रः । कण्व॑स्य । वा॒म् । इ॒ह । सु॒साव॑ । सो॒म्यम् । मधु॑ ॥आ । नः । यातम् । दिवः । परि । आ । अन्तरिक्षात् । अधप्रिया । पुत्रः । कण्वस्य । वाम् । इह । सुसाव । सोम्यम् । मधु ॥ā | naḥ | yātam | divaḥ | pari | ā | antarikṣāt | adha-priyā | putraḥ | kaṇvasya | vām | iha | susāva | somyam | madhu