Sukta 8.8
प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्वश्विना । पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा ॥
प्र वां॒ स्तोमा॑: सुवृ॒क्तयो॒ गिरो॑ वर्धन्त्वश्विना । पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥
prá vā́m stómāḥ suvr̥ktáyo gíro vardhantv aśvinā | púru-trā vŕ̥trahantamā tā́ no bhūtam puru-spṛ́hā ||
May our hymns and well-fashioned words increase you, O Ashvins. O most slayers of the coverer in many places, become for us powers richly desired—present and effective in our being.
प्र । वा॒म् । स्तोमाः॑ । सु॒ऽवृ॒क्तयः॑ । गिरः॑ । व॒र्ध॒न्तु॒ । अ॒श्वि॒ना॒ । पुरु॑ऽत्रा । वृत्र॑हन्ऽतमा॒ । ता । नः॒ । भू॒त॒म् । पु॒रु॒ऽस्पृहा॑ ॥प्र । वाम् । स्तोमाः । सुवृक्तयः । गिरः । वर्धन्तु । अश्विना । पुरुत्रा । वृत्रहन्तमा । ता । नः । भूतम् । पुरुस्पृहा ॥pra | vām | stomāḥ | su-vṛktayaḥ | giraḥ | vardhantu | aśvinā | puru-trā | vṛtrahan-tamā | tā | naḥ | bhūtam | puru-spṛhā