Sukta 8.8
याभिर्नरा त्रसदस्युमावतं कृत्व्ये धने । ताभिः ष्वस्माँ अश्विना प्रावतं वाजसातये ॥
याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ । ताभि॒: ष्व१॒॑स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥
yā́bhir narā trasádasyum ā́vatam kṛ́tvye dháne | tā́bhiḥ sv àsmā́m̐ aśvinā prá̄vatam vā́jasātaye ||
By those powers with which you protected Trasadasyu in the decisive winning of the wealth, by those same powers, O Ashvins, strongly protect us forward, for the gaining of plenitude of force.
याभिः॑ । न॒रा॒ । त्र॒सद॑स्युम् । आव॑तम् । कृत्व्ये॑ । धने॑ । ताभिः॑ । सु । अ॒स्मान् । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । वाज॑ऽसातये ॥याभिः । नरा । त्रसदस्युम् । आवतम् । कृत्व्ये । धने । ताभिः । सु । अस्मान् । अश्विना । प्र । अवतम् । वाजसातये ॥yābhiḥ | narā | trasadasyum | āvatam | kṛtvye | dhane | tābhiḥ | su | asmān | aśvinā | pra | avatam | vāja-sātaye