Sukta 8.8
आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत । राजन्तावध्वराणामश्विना यामहूतिषु ॥
आ वां॒ विश्वा॑भिरू॒तिभि॑: प्रि॒यमे॑धा अहूषत । राज॑न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥
ā vāṃ víśvābhir ūtíbhiḥ priyámedhā ahūṣata | rājántāv adhvarā́ṇām aśvinā yā́mahūtiṣu ||
With all your powers of help, the Priyamedhas have called you hither. O Aśvins, you who shine as kings of the offerings, come in the appointed invocations and right approaches of the sacrifice—and rule in us as guiding powers.
आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ । राज॑न्तौ । अ॒ध्व॒राणा॑म् । अश्वि॑ना । याम॑ऽहूतिषु ॥आ । वाम् । विश्वाभिः । ऊतिभिः । प्रियमेधाः । अहूषत । राजन्तौ । अध्वराणाम् । अश्विना । यामहूतिषु ॥ā | vām | viśvābhiḥ | ūti-bhiḥ | priya-medhāḥ | ahūṣata | rājantau | adhvarāṇām | aśvi nā | yāma-hūtiṣu