Sukta 8.8
आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा । कृतं नः सुश्रियो नरेमा दातमभिष्टये ॥
प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् । यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥
ā no gantáṃ riśādasemáṃ stómaṃ purubhujā | kṛtáṃ naḥ suśríyo naremā́ dā́tam abhíṣṭaye ||
Come to us, O slayers of the harmful, enjoyers of many fulfillments; accept this hymn fashioned by us. O glorious heroes, give us these boons for our victorious aim and inner conquest.
आ । नः॒ । ग॒न्त॒म् । रि॒शा॒द॒सा॒ । इ॒मम् । स्तोम॑म् । पु॒रु॒ऽभु॒जा॒ । कृ॒तम् । नः॒ । सु॒ऽश्रियः॑ । न॒रा॒ । इ॒मा । दा॒त॒म् । अ॒भिष्ट॑ये ॥आ । नः । गन्तम् । रिशादसा । इमम् । स्तोमम् । पुरुभुजा । कृतम् । नः । सुश्रियः । नरा । इमा । दातम् । अभिष्टये ॥ā | naḥ | gantam | riśādasā | imam | stomam | puru-bhujā | kṛtam | naḥ | su-śriyaḥ | narā | imā | dātam | abhiṣṭaye