Sukta 8.8
आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम् । यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् ॥
आ नो॑ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा॑ यु॒वम् । यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥
ā nó gantam mayobhúvā́śvinā śambhúvā yuvám | yó vā́m vipanyū dhītíbhiḥ gīrbhír vatsó avīvṛdhat ||
Come to us, O Ashvins, you who bring delight and who bring peace—come, you two. For the seeking soul, Vatsa, has increased your power by his inspired thoughts and by his words of affirmation.
आ । नः॒ । ग॒न्त॒म् । म॒यः॒ऽभुवा॑ । अश्वि॑ना । श॒म्ऽभुवा॑ । यु॒वम् । यः । वा॒म् । वि॒प॒न्यू॒ इति॑ । धी॒तिऽभिः॑ । गीः॒ऽभिः । व॒त्सः । अवी॑वृधत् ॥आ । नः । गन्तम् । मयःभुवा । अश्विना । शम्भुवा । युवम् । यः । वाम् । विपन्यू इति । धीतिभिः । गीःभिः । वत्सः । अवीवृधत् ॥ā | naḥ | gantam | mayaḥ-bhuvā | aśvinā | śam-bhuvā | yuvam | yaḥ | vām | vipanyūiti | dhīti-bhiḥ | gīḥ-bhiḥ | vatsaḥ | avīvṛdhat