Sukta 8.8
प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम् । यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती ॥
प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् । यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥
prāsmā́ ūrjáṃ ghṛtaścútam aśvinā yácchataṃ yuvám | yó vāṃ sumnā́ya túṣṭavad vasūyā́d dānunaspatī ||
Give to him the streaming energy that is rich with clarified light, O Aśvins. He who has praised you for your grace, seeking the inner riches—O lords of the giving power—let him be sustained by that force.
प्र । अ॒स्मै॒ । ऊर्ज॑म् । घृ॒त॒ऽश्चुत॑म् । अश्वि॑ना । यच्छ॑तम् । यु॒वम् । यः । वा॒म् । सु॒म्नाय॑ । तु॒स्तव॑त् । व॒सु॒ऽयात् । दा॒नु॒नः॒ । प॒ती॒ इति॑ ॥प्र । अस्मै । ऊर्जम् । घृतश्चुतम् । अश्विना । यच्छतम् । युवम् । यः । वाम् । सुम्नाय । तुस्तवत् । वसुयात् । दानुनः । पती इति ॥pra | asmai | ūrjam | ghṛta-ścutam | aśvinā | yacchatam | yuvam | yaḥ | vām | sumnāya | tustavat | vasu-yāt | dānunaḥ | patī iti