Sukta 8.8
यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् । तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥
यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् । तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुत॑म् ॥
yó vāṃ nāsatyāv ṛ́ṣir gī́rbhir vatsó ávīvṛdhat | tásmai sahásranirṇijam íṣaṃ dhattaṃ ghṛtaścútam ||
He who, the seer Vatsa, has increased you, O Nāsatyas, with songs—give to him that thousand-radiant nourishment, the flow that drips with clarified light and richness.
यः । वा॒म् । ना॒स॒त्यौ॒ । ऋषिः॑ । गीः॒ऽभिः । व॒त्सः । अवी॑वृधत् । तस्मै॑ । स॒हस्र॑ऽनिर्निज॑म् । इष॑म् । ध॒त्त॒म् । घृ॒त॒ऽश्चुत॑म् ॥यः । वाम् । नासत्यौ । ऋषिः । गीःभिः । वत्सः । अवीवृधत् । तस्मै । सहस्रनिर्निजम् । इषम् । धत्तम् । घृतश्चुतम् ॥yaḥ | vām | nāsatyau | ṛṣiḥ | gīḥ-bhiḥ | vatsaḥ | avīvṛdhat | tasmai | sahasra-n irnijam | iṣam | dhattam | ghṛta-ścutam