Sukta 8.8
यन्नासत्या परावति यद्वा स्थो अध्यम्बरे । अतः सहस्रनिर्णिजा रथेना यातमश्विना ॥
यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यम्ब॑रे । अत॑: स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥
yán nāsatyā parāváti yád vā sthó ádhy ámbare | atáḥ sahásranirṇijā ráthenā́ yātam aśvinā ||
Whether, O Nāsatyas, you are in the far distance or stationed above in the luminous ether, from here come on your chariot of a thousand radiances, O Aśvins, into our field of aspiration.
यत् । ना॒स॒त्या॒ । प॒रा॒ऽवति॑ । यत् । वा॒ । स्थः । अधि॑ । अम्ब॑रे । अतः॑ । स॒हस्र॑ऽनिर्निजा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥यत् । नासत्या । परावति । यत् । वा । स्थः । अधि । अम्बरे । अतः । सहस्रनिर्निजा । रथेन । आ । यातम् । अश्विना ॥yat | nāsatyā | parāvati | yat | vā | sthaḥ | adhi | ambare | ataḥ | sahasra-nirnijā | rathena | ā | yātam | aśvinā