Sukta 8.8
आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया । कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥
आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या । कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥
ā no víśvāny aśvinā dhattáṃ rā́dhāṃsy áhrayā | kṛtáṃ na ṛtvíyāvato mā́ no rīradhataṃ nidé ||
O Aśvins, bring to us all the boons without delay. Make effective for us the work of those who move in the right season and right order; do not abandon us to blame and the diminishing voice of negation.
आ । नः॒ । विश्वा॑नि । अ॒श्वि॒ना॒ । ध॒त्तम् । राधां॑सि । अहू॑या । कृ॒तम् । नः॒ । ऋ॒त्विय॑ऽवतः । मा । नः॒ । री॒र॒ध॒त॒म् । नि॒दे ॥आ । नः । विश्वानि । अश्विना । धत्तम् । राधांसि । अहूया । कृतम् । नः । ऋत्वियवतः । मा । नः । रीरधतम् । निदे ॥ā | naḥ | viśvāni | aśvinā | dhattam | rādhāṃsi | ahūyā | kṛtam | naḥ | ṛtviya-vataḥ | mā | naḥ | rīradhatam | nide