Sukta 8.8
आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू । विश्वान्यश्विना युवं प्र धीतान्यगच्छतम् ॥
आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू । विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम् ॥
ā yád vā́m yóṣaṇā rátham átiṣṭhad vājinīvasū | víśvāny aśvinā yuváṃ prá dhītā́ny agacchatam ||
When the luminous Shakti set your chariot in motion, O lords of plenitudes of force, then, O Aśvins, you two went forward to all the right-held intentions of the mind, fulfilling and quickening them.
आ । यत् । वा॒म् । योष॑णा । रथ॑म् । अति॑ष्ठत् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । विश्वा॑नि । अ॒श्वि॒ना॒ । यु॒वम् । प्र । धी॒तानि॑ । अ॒ग॒च्छ॒त॒म् ॥आ । यत् । वाम् । योषणा । रथम् । अतिष्ठत् । वाजिनीवसू इति वाजिनीवसू । विश्वानि । अश्विना । युवम् । प्र । धीतानि । अगच्छतम् ॥ā | yat | vām | yoṣaṇā | ratham | atiṣṭhat | vājinīvasūitivājinī-vasū | viśvāni | aśv inā | yuvam | pra | dhītāni | agacchatam