Sukta 8.79
अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे । राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥
अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ । राज॒न्नप॒ द्विष॑: सेध॒ मीढ्वो॒ अप॒ स्रिध॑: सेध ॥
áva yát sve sadhásthe devānāṃ durmatī́r ī́kṣe | rājan ápa dvíṣaḥ sedha mīḍhvo ápa srídhaḥ sedha ||
When, in your own seat among the gods, you look down upon the crooked thoughts, O King, then repel the hostile forces; drive away from the giver within us the powers that obstruct and wound the movement.
अव॑ । यत् । स्वे । स॒धऽस्थे॑ । दे॒वाना॑म् । दुः॒ऽम॒तीः । ईक्षे॑ । राज॑न् । अप॑ । द्विषः॑ । से॒ध॒ । मीढ्वः॑ । अप॑ । स्रिधः॑ । से॒ध॒ ॥अव । यत् । स्वे । सधस्थे । देवानाम् । दुःमतीः । ईक्षे । राजन् । अप । द्विषः । सेध । मीढ्वः । अप । स्रिधः । सेध ॥ava | yat | sve | sadha-sthe | devānām | duḥ-matīḥ | īkṣe | rājan | apa | dviṣaḥ | sedha | mīḍhavaḥ | apa | sridhaḥ | sedha