Sukta 8.79
अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः । ऋषिर्विप्रः काव्येन ॥
अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोम॑: । ऋषि॒र्विप्र॒: काव्ये॑न ॥
ayáṃ kṛtnúr ágṛbhīto viśvá-jid úd-bhíd ít sómaḥ́ | ṛ́ṣir vípraḥ́ kā́vyena ||
This Soma is perfect in his working, unseized by limitation; a winner of the whole, a breaker upward of what is shut in. By the inspired poet’s vision he becomes the seer, the illumined one.
अ॒यम् । कृ॒त्नुः । अगृ॑भीतः । वि॒श्व॒ऽजित् । उ॒त्ऽभित् । इत् । सोमः॑ । ऋषिः॑ । विप्रः॑ । काव्ये॑न ॥अयम् । कृत्नुः । अगृभीतः । विश्वजित् । उत्भित् । इत् । सोमः । ऋषिः । विप्रः । काव्येन ॥ayam | kṛtnuḥ | agṛbhītaḥ | viśva-jit | ut-bhit | it | somaḥ | ṛṣiḥ | vipraḥ | kāvyena