Sukta 8.78
तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे । दिनस्य वा मघवन्त्सम्भृतस्य वा पूर्धि यवस्य काशिना ॥
तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे । दि॒नस्य॑ वा मघव॒न्त्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥
tavéd índrāhám āśásā háste dā́traṃ canā́ dade | dinásya vā maghavan sámbhṛtasya vā pūrdhí yávasya kāśínā ||
O Indra, it is of you that I hope: into your hand I place even the sickle. O bountiful one, fill for us—whether of today or of what has been stored—the harvest of growth with your shining power.
तव॑ । इत् । इ॒न्द्र॒ । अ॒हम् । आ॒ऽशसा॑ । हस्ते॑ । दात्र॑म् । च॒न । आ । द॒दे॒ । दि॒नस्य॑ । वा॒ । म॒घ॒ऽव॒न् । सम्ऽभृ॑तस्य । वा॒ । पू॒र्धि । यव॑स्य । का॒शिना॑ ॥तव । इत् । इन्द्र । अहम् । आशसा । हस्ते । दात्रम् । चन । आ । ददे । दिनस्य । वा । मघवन् । सम्भृतस्य । वा । पूर्धि । यवस्य । काशिना ॥tava | it | indra | aham | āśasā | haste | dātram | cana | ā | dade | dinasya | vā | magha-van | sam-bhṛtasya | vā | pūrdhi | yavasya | kāśinā