Sukta 8.77
जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरम् । क उग्राः के ह शृण्विरे ॥
ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तर॑म् । क उ॒ग्राः के ह॑ शृण्विरे ॥
jajñānó nu śatá-kratur ví pṛcchad íti mātáram | ká ugrā́ḥ ké ha śṛṇvire ||
New-born, the hundred-powered Will (Indra) questioned his Mother within: “Who are the formidable ones, who indeed will hear (my call)?”—as if seeking the allies of the true battle.
ज॒ज्ञा॒नः । नु । श॒तऽक्र॑तुः । वि । पृ॒च्छ॒त् । इति॑ । मा॒तर॑म् । के । उ॒ग्राः । के । ह॒ । शृ॒ण्वि॒रे॒ ॥जज्ञानः । नु । शतक्रतुः । वि । पृच्छत् । इति । मातरम् । के । उग्राः । के । ह । शृण्विरे ॥jajñānaḥ | nu | śata-kratuḥ | vi | pṛcchat | iti | mātaram | ke | ugrāḥ | ke | ha | śṛṇvire