Sukta 8.75
मा नो देवानां विशः प्रस्नातीरिवोस्राः । कृशं न हासुरघ्न्याः ॥
मा नो॑ दे॒वानां॒ विश॑: प्रस्ना॒तीरि॑वो॒स्राः । कृ॒शं न हा॑सु॒रघ्न्या॑: ॥
mā́ no devā́nāṃ víśaḥ prasnātī́r ivó srā́ḥ | kṛśáṃ ná hāsur aghnyā́ḥ ||
Let not the radiant herds of the gods, like cows straying to graze, abandon us—let not the inviolable rays leave us lean and diminished.
मा । नः । दे॒वाना॑म् । विशः॑ । प्र॒स्ना॒तीःऽइ॑व । उ॒स्राः । कृ॒शम् । न । हा॒सुः॒ । अघ्न्याः॑ ॥मा । नः । देवानाम् । विशः । प्रस्नातीःइव । उस्राः । कृशम् । न । हासुः । अघ्न्याः ॥mā | naḥ | devānām | viśaḥ | prasnātīḥ-iva | usrāḥ | kṛśam | na | hāsuḥ | aghnyāḥ