Sukta 8.75
विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः । अधा ते सुम्नमीमहे ॥
वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः । अधा॑ ते सु॒म्नमी॑महे ॥
vidmā́ hí te purā́ vayám agné pitúr yáthā́vasaḥ | ádhā te sumnám īmahe ||
We have known from of old, O Agni, thy fostering help as a child knows the succour of the Father. Therefore now we seek from thee thy glad grace—thy power of benevolent protection within us.
वि॒द्म । हि । ते॒ । पु॒रा । व॒यम् । अग्ने॑ । पि॒तुः । यथा॑ । अव॑सः । अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥विद्म । हि । ते । पुरा । वयम् । अग्ने । पितुः । यथा । अवसः । अध । ते । सुम्नम् । ईमहे ॥vidma | hi | te | purā | vayam | agne | pituḥ | yathā | avasaḥ | adha | te | sumnam | īmahe