Sukta 8.75
यस्याजुषन्नमस्विनः शमीमदुर्मखस्य वा । तं घेदग्निर्वृधावति ॥
यस्याजु॑षन्नम॒स्विन॒: शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति ॥
yásyājuṣan namasvínaḥ śamī́m ádurmakhasya vā | táṃ ghéd agnír vṛdhā́ avati ||
Whosever self-offering has pleased the reverent ones—whether he is imperfect in sacrifice or not—him indeed Agni helps abundantly, fostering his growth.
यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी॑म् । अदुः॑ऽमखस्य । वा॒ । तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥यस्य । अजुषत् । नमस्विनः । शमीम् । अदुःमखस्य । वा । तम् । घ । इत् । अग्निः । वृधा । अवति ॥yasya | ajuṣat | namasvinaḥ | śamīm | aduḥ-makhasya | vā | tam | gha | it | agniḥ | vṛdhā | avati