Sukta 8.74
सा ते अग्ने शंतमा चनिष्ठा भवतु प्रिया । तया वर्धस्व सुष्टुतः ॥
सा ते॑ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या । तया॑ वर्धस्व॒ सुष्टु॑तः ॥
sā́ te agne śáṃtamā caníṣṭhā bhavatu priyā́ | táyā vardhasva suṣṭutáḥ ||
May that—most peace-giving—be dear to you, O Agni, the nearest and most intimate; by it grow, well-praised, increasing in your force.
सा । ते॒ । अ॒ग्ने॒ । शम्ऽत॑मा । चनि॑ष्ठा । भ॒व॒तु॒ । प्रि॒या । तया॑ । व॒र्ध॒स्व॒ । सुऽस्तु॑तः ॥सा । ते । अग्ने । शम्तमा । चनिष्ठा । भवतु । प्रिया । तया । वर्धस्व । सुस्तुतः ॥sā | te | agne | śam-tamā | caniṣṭhā | bhavatu | priyā | tayā | vardhasva | su-stutaḥ